________________
नमाम्यहं ॥ ६॥ सर्वजगदर्चनीयान् सिद्धान् लोकाग्रसंस्थितान् । अष्टविधकर्ममुक्तान , नित्यं वंदे शिवालयान् ॥ ७ ॥ पंचविधाचाररतान व्रतसंयमनायकान् । आचार्यान् सततं वंदे शरण्यान भवदेहिनाम् ॥ ८ ।। द्वादशांगोरुपूर्वाख्यश्रुतसागरपारगान । उपदेष्टनुपाध्यायान् उभयोः संध्ययोस्स्तुमः ॥ ९ ॥ निर्वाणसाधकान् साधून , सर्वजीवदयापरान् । व्रतशीलतपोयुक्तान वन्दे सद्गतिकां-- क्षिणः ।।१०॥ एवं पंचनमस्कारः सर्वपापप्रणाशनः । मंगलानाञ्च सर्वेषां प्रथमो भवतु मंगलम् ॥ ११ ॥
श्रीनाभेयस्तवनम् प्रणतनरामरभुजगेंद्रमौलिमालाभिरचितांघ्रियुगम् । वंदे युगादिनाथं भक्तिप्रणतोत्तमांगेन ॥१॥ एतत्तव जन्मदिने जगदानंदेन पूरितं नाथ । किल मयि नाथविहीने जातो नाथोऽयमिति बुद्धया ॥ २ ॥ उपलभ्य केवलालोकभानुना धर्मरत्नमकलङ्कम् । लोके प्रकटितमादी, जिनेन्द्र भवतैव मोहांधे ।। ३ ।। मूभ्रिममुपनीते भुवने रागादिकालकूटेन । अमृतायितममलेन त्वदीयवचनेन हे नाथ ॥ ४ ॥ भवदीयवचनरज्जुः प्रभुरगुणाय यदि भवेदियं नैव । जायेत नरककूपात्थकमुत्तारः प्रभो जगतः ॥ ५ ॥ चिन्तामणिकल्पतरू दूरत एवाधरीकृती भवता । चिन्ताकल्पनयोगाते हि दाने न तो दत्तः ॥ ६ ॥ भक्तिभरनिर्भरमना भवाम्यहमनारतं यथा भवति । कारुणिक कृपां कृत्वा महतीं कुरु मां तथा नाथ ।। ७ ।। इति वहमध्यगताक्षरविरहितवचनैरभिस्तुतो भक्त्या । संबोधिलाभमतुलं ददातु भक्ताय नाभेय ॥ ८ ॥