________________
१९८
कारुणिके न यस्य भक्तिर्जगदभ्युद्धरणोद्यतस्वभावे । नहि तेन समोऽधमः पृथिव्यामथवा नाथ न भाजनं गुणानाम् ॥ ५ ॥ एवंविधे शास्तरि वातदोष, महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव, त्वद्वेषदग्धेषु क एव वादः ॥६॥ न तानि चक्षूषि न यैनिरीक्ष्यसे, न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणा, न ते गुणा ये न भवंतमाश्रिताः ॥ ७ ॥ तच्चक्षुद्देश्यसे येन, तन्मनो येन चिन्त्यसे । सज्जनानंदजननी, सा वाणी स्तूयसे यया ॥ ८॥ न तव यान्ति जिनेन्द्र गुणाः क्षयम् , मम तु शक्तिरूपैति परिक्षयम् । निगदितैर्बहुभिः किमिहापरैरपरिमाणगुणोऽसि नमोऽस्तु ते ॥ ९ ॥
श्रीपञ्चपरमेष्ठिस्तवनम् नम्रामरेश्वर किरीटनिविष्टशोणरत्नप्रभापटलपाटलितांघ्रिपीठाः । तीर्थेश्वराः शिवपुरीपथसार्थवाहा निःशेषवस्तुपरमार्थविदो जयन्ति ॥ १ ॥ लोकाग्रभावभवना भवभीतिमुक्ता ज्ञानावलोकितसमस्तपदार्थसार्थाः । स्वाभाविकस्थिरविशिष्टसुखैः समृद्धाः सिद्धा विलीनघनकर्ममला जयन्ति ॥ २॥ आचारपंचकसमाचरणप्रवीणाः सर्वज्ञशासनभरैकधुरंधरा ये । ते सूरयो दमितदुर्दमवादिवृन्दा विश्वोपकारकरणप्रवणा जयन्ति ॥ ३ ॥ सूत्रं यतीनतिपटुस्फुटयुक्तियुक्त युक्तिप्रमाणनयभंगगमैर्गभीरम् । ये पाठयन्ति वरसूरिपदस्य योग्यास्ते वाचकाश्चतुरचारुगिरो जयन्ति ॥ ४ ॥ सिद्धयगनासमसमागमबद्धवाचाः, संसारसागरसमुत्तरणैकचिंताः । ज्ञानादिभूषणविभूषितदेहभागा रागादिघातरतयो यतयो जयन्ति ॥ ५ ॥ अईतस्त्रिजगद्वन्द्यान् त्रिलोकेश्वरपूजितान् । त्रिकालभावसर्वज्ञान त्रिविधेन