________________
(अनुष्टुब् वृत्तम) अनित्यत्वाशरणते, भवमेकत्वमन्यताम् । अशौचमाश्रवं चात्मन्, संवरं परिभावय ॥७॥
कर्मणो निर्जरां धर्म-सूक्ततां लोकपद्धतिम् । बोधिदुर्लभतामेता, भावयन् मुच्यसे भवात् ॥८॥
(पुष्पिताग्रवृत्तम् ) बपुरिवपुरिदं विदम्भलीला-परिचितमप्यतिभङ्गुरं नराणाम् । तदतिभिदुरयौवनाविनीतम् , भवति कथं विदुषां महोदयाय ॥९॥
(शार्दूलविक्रीडितं वृत्तद्वयम् ) आयुर्वायुतरत्तरङ्गतरलम्, लग्नापद : सम्पद : सर्वेऽपीन्द्रियगोचराश्च चटुलाः, सन्ध्याभ्ररागादिवत् । मित्रस्त्रीस्वजनादिसङ्गमसुखम् , स्वप्नेन्द्रजालोपमं, तत्किं वस्तु भवे भवे-दिह मुदामालम्बनं यत्सताम् ॥१०॥ प्रातमा॑तरिहावदातरुचयो ये चेतनाचेतना दृष्टा विश्वमनःप्रमोदविदुरा भावाः स्वतः सुन्दराः। तांस्तत्रैव दिने विपाकविरसान हा नश्यतः पश्यत
श्वेतः प्रेतहतं जहाति न भवप्रेमानुबन्धं मम ॥ ११ ॥
ॐ प्रथमभावनाष्टकम् । रामगिरिरागेण गीयते ॥ मूढ मुह्यसि मुधा मूढ मुह्यसि मूधा, विभवमनुचिन्त्य हृदि सपरिवारम् । कुशशिरसि नीरमिव गलदनिलकम्पितम् , विनय जानीहि
जीवितमसारम् , मू० ॥ १॥