________________
ॐ नमः सिद्धम् । महा महोपाध्याय श्रीविनयविगणिविरचितः
श्रीशान्तसुधारसः ।
00
( शार्दूलविक्रीडितं वृत्तम् )
नीरन्ध्रे भवकाने परिगलत्पश्चाश्रवाम्भोधरे कर्मावितानगने मोहान्धकारोधुरे । भ्रान्तानामिह देहिनां हितकृते कारुण्यपुण्यात्मभिस्तीर्थेशैः प्रथितास्सुधार सकिरो रम्या गिरः पान्तु वः || १ || ( द्रुतविलंबितं वृत्तत्रयम् )
स्फुरति चेतसि भावनया विना, न विदुषामपि शान्तसुधारसः । न च सुखं कृशमप्यमुना विना, जगति मोहविषादविषाकुले ||२|| यदि भवभ्रमखेदपराङ्मुखम्, यदि च चित्तमनन्तसुखोन्मुखम् । शृणुत तत्सुधियः शुभभावना-मृ (भृ?) तर सं मम शान्त सुधारसम् ॥३॥ सुमनसो मनसि श्रुतपावना, निदधतां द्वद्यधिका दशभावनाः । यदि रोहति मोहतिरोहिता - भुतगतिर्विदिता समताला ||४|| ( रथोद्धतावृत्तम् ) आर्तरौद्रपरिणाम पावक - प्लुष्टभावुकविवेक सौष्ठवे ।
मानसे विषयलोलुपात्मनाम्, क्व प्ररोहतितमां शमाङ्करः ||५|| (वसन्ततिलकावृत्तम्)
यस्याशयं श्रुतकृतातिशयं विवेक - पीयूष वर्षरमणीयर ( त ? ) मं श्रयन्ते । सद्भावनासुरलता नहि तस्य दूरे, लोकोत्तर प्रशमसौख्य फलप्रसूतिः ६