________________
पश्य भङ्गुरमिदं विषयसुखसौहृदम् , पश्यतामेव नश्यति सहासम्। एतदनुहरति संसाररूपं रयाज्ज्वल-जलदबालिकारुचिविलासम्, मू॥२॥ हन्त इतयौवनं पुच्छमिव शौवनम् , कुटिलमति तदपि लघुदृष्टनष्टभ् तेन बत परवशाः परवशा हतधियः, कटुकमिह किं न कलयन्ति
कष्टम् , मू० ॥ ३॥ यदपि पिण्याकतामङ्गमिदमुपगतम् , भुवनदुर्जयजरापीतसारम् । तदपि गतलजमुज्झति मनो नाङ्गिनाम् , वितथमति कुथितमन्म
थविकारम् मू० ॥४॥ सुखमनुत्तर सुरावधि यदतिमेदुरम् , कालतस्तदपि कलयति विरामम् । कतरदितरत्तदा वस्तु सांसारिकम् , स्थिरतरं भवति चिन्तय
निकामम् मू० ॥ ५॥ यैः समं क्रीहिता ये च भृशमीडिताः, यैः सहाकृष्महि प्रीतिवादम् । तान् जनान् वीक्ष्य बत भस्मभूयङ्गतानिर्विशङ्काः स्म इति धिक्
प्रमादम् मू० ॥६॥ भसकृदुन्मिष्य निमिषन्ति सिन्धूर्मिवच्चेतनाचेतनाः सर्वभावा । इन्द्रजालोपमाः स्वजनधनसङ्गमास्तेषु रज्यन्ति मूढस्वभावः, मूः ॥७॥ कवलयन्नविरतं जङ्गमाजङ्गमम् , जगदहो नैव तृप्यति कृतान्तः। मुखगतान् खादतस्तस्य करतलगतैने कथमुपलप्स्यतेऽस्माभिरन्तः,
मू० ॥८॥ नित्यमेकं चिदानन्दमयमात्मनो, रूपमभिरूप्य सुखमनुभवेयम् । प्रशमरसनवसुधापानविनयोत्सवो, भवतु सततं सतामिह भवेऽयम् ,
मू० ॥९॥ इति श्रीशान्तसुधारसगेयकाव्ये अनित्यभावनाविभावनो नाम
प्रथमः प्रकाशः