________________
११७
दशमोऽध्यायः
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १ ॥ बन्धहेत्वभावनिर्जराभ्याम् ॥ २ ॥ कृत्स्नकर्मक्षयो मोक्षः ॥ ३ ॥ औपशमिकादि भव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः || ४ || तदनन्तरमुदुर्ध्वं गच्छत्यालोकान्तात् ||५|| पूर्वप्रयोगादसङ्गत्वाद्वन्धविच्छेदात्तथागतिपरिणामाच्च तद्गतिः ॥ ६ ॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसं ख्याल्पबहुत्वतः साध्याः ॥ ७ ॥
इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचनसङग्रहे दशमोऽध्यायः
000
अथ भाष्यप्रशस्तिः
·
एवं तत्त्वपरिज्ञानाद्विरक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥ १ ॥ पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कार्त्स्न्येन मोहनीयं प्रहीयते ॥ २ ॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३ ॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्म क्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ ततः क्षीणचतुःकर्मा प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः ॥ ५ ॥ शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥ ६ ॥ कृत्स्नकर्मक्षयादूर्ध्वं निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निर्निरुपादानसन्ततिः ॥ ७ ॥ दग्धे बोजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे नारोहति भवाङ्करः ॥ ८ ॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥ ९ ॥ कुलालचक्रे दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेद्द तथा
1