________________
११८
सिद्धिगति स्मृता ॥१०॥ मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्तथा सिद्धिगतिः स्मृता ॥ ११ ॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदासिद्धस्यापि तथेष्यते ॥ १२ ॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः पुद्गला इति चोदितम् ॥ १३ ॥ यथाधस्तिर्यगूर्व च लोष्टवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते तथोर्ध्व गतिरात्मनाम् ॥ १४ ॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते । कर्मणः प्रतिघाताच प्रयोगाश्च तदिष्यते ॥ १५ ॥ अधस्तिर्यगर्थोध्वं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ॥ १६ ॥ द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥१७॥ उत्पत्तिश्च विनाशश्व प्रकाशतमसोरिह । युगपद्भवतो यद्वत् तथा निर्वाणकर्मणोः ॥ १८ ॥ तन्वी मनोज्ञा सुरभिः पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा । ऊर्ध्व तस्याः क्षितेः सिद्धा लोकान्ते समवस्थिताः ॥ २० ॥ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शनैः। सम्यक्त्वसिद्धतावस्था हेत्वभावाच निष्क्रियाः ॥ २१ ॥ ततोऽप्यूवं गतिस्तेषां कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्स हि हेतुर्गतेः परः ॥ २२ ॥ संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥ स्यादेतदशरीरस्य जन्तोनष्टाष्टकर्मणः। कथं भवति मुक्तस्य सुखमित्यत्र मे शृणु ॥ २४ ॥ लोके चतुर्विहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे विपाके मोक्ष एव च ॥ २६ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाऽभावे च पुरुषः सुखीतोऽस्मीति मन्यते ॥ २६ ॥ पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच मोक्षे सुखमनुत्तमम् ॥ २७ ॥ सुस्वप्नसुप्तवत्के.