________________
११६
श्रम् ।। १८ ।। अनशनावमौदर्यवृत्तिपरिसंख्यानर सपरित्यागविविक्तशय्यासनकायक्लेशा बाह्य तपः ॥ १९ ॥ प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् ।। २१ ।। आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥ ज्ञानदर्शनचारित्रोपचाराः || २३ || आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसंघसाधुसमनोज्ञानाम् ॥ २४ ॥ वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ।। २५ ।। बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ उत्तमसंहननस्यैकाप्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥ भ मुहूर्तात् ॥ २८ ॥ आर्तरौद्रधर्मशुक्लानि ॥ २९ ॥ परे मोक्षहेतू ॥ ३० ॥ आर्तममनोज्ञानां संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः || ३१ || वेदनाया'च ॥ ३२ ॥ विपरीतं मनोज्ञानाम् ॥ ३३ ॥ निदानं च ॥ ३४ ॥ तद्विरत देशविरतप्रमत्तसंयतानाम् ॥ ३५ ॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः || ३६ || आज्ञापायविपाक संस्थानविचयाय धर्ममप्रमत्तसंयतस्य ।। ३७ ।। उपशान्तक्षीणकषायो || ३८ || शुक्ले चाद्ये ॥ ३९ ॥ परे केवलिनः ||४०|| पृथक्त्यैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवृत्तीनि ॥४१॥ तत् त्र्येककाययोगायोगानाम् ॥ ४२ ॥ एकाश्रये सवितर्फे पूर्वे ॥ ४३ ॥ अविचारं द्वितीयम् ॥ ४४ ॥ वितर्कः श्रुतम् ॥ ४५ ॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४६ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशान्तमोहक्षपकक्षीणमोहजिना: क्रमशोऽसंख्येयगुणनिर्जरा: ॥ ४७ ॥ पुलाकबकुशकुशील निर्ग्रन्थस्नातका निर्मन्थाः ॥ ४८ ॥ संयमश्रुत प्रतिसेवनातीर्थलिंग लेश्योपपातस्थानविकल्पतः साध्याः ॥ ४९ ॥
इति श्रीतत्त्वार्थाधिगमेऽईत्प्रवचनसङग्रहे नवमोऽध्यायः
::