________________
१११
पञ्चमोऽध्यायः अजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥ द्रव्याणि जीवाश्च ॥२॥ नित्यावस्थितान्यरूपाणि ॥३॥ रूपिणः पुद्गलाः ॥ ४ ॥ आऽऽकाशादेकद्रव्याणि ॥५॥ निष्क्रियाणि च ॥६॥ असंख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७ ।। जीवस्य च ॥ ८॥ आकाशस्यानन्ताः ॥ ९ ॥ संख्येयासंख्येयाश्च पुद्गलानाम् ।। १० ॥ नाणोः ।। ११ ।। लोकाकाशेऽवगाहः ॥१२॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ १७ ॥ आकाशस्यावगाहः ।। १८ ।। शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ।। १९ ॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ।। परस्परोपग्रहो जीवानाम् ॥ २१ ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ स्पर्शरसगन्धवणेवन्तः पुद्गलाः ॥ २३ ॥ शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमच्छायातपोद्योतवन्तश्च ॥ २४ ।। अणवः स्कन्धाश्च ।। २५ ।। संघातभेदेभ्य उत्पद्यन्ते ॥ २६ ॥ भेदादणुः ॥ २७ ॥ भेदसंघाताभ्यां चाक्षुषाः ॥ २८ ॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ २१ ॥ तद्भावाव्ययं नित्यम् ॥ ३० ॥ अर्पितानर्पितसिद्धः ॥ ३१ ॥ स्निग्धरूक्षत्वाद्वन्धः ॥३२॥ न जघन्यगुणानाम् ॥३३॥ गुणसाम्ये सदृशानाम् ॥ ३४ ॥ व्यधिकादिगुणानां तु ॥ ३५ ॥ बन्धे समाधिको पारिणामिकौ ॥ ३६ ।। गुणपर्यायवद् द्रव्यम् ॥ ३७ ॥ काल चेत्येके ॥ ३८ ॥ सोऽनन्तसमयः ॥ ३९ ॥ द्रव्याश्रया निर्गणा गुणाः ॥ ४० ॥ तद्भावः परिणामः ।। ४१ ॥ अनादिरादिमांश्च ॥४२॥ रूपिष्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४४॥
इति श्रीतत्त्वार्थाधिगमेऽहत्प्रवचनसझहे पञ्चमोऽध्यायः