________________
प्रकीर्णतारकाश्च ॥ १३ ॥ मेरुप्रदक्षिणानित्यगतयो नलोके ॥१४॥ तत्कृतः कालविभागः ॥ १५ ॥ बहिरवस्थिताः ॥१६॥ वैमानिकाः ॥ १७ ॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १८ ॥ उपर्यपरि ॥१९॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु प्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिध्धे च ॥२०॥ स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२१॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २२॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २३ ॥ प्राग्वेयकेभ्यः कल्पाः ॥ २४ ॥ ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥ सारस्वतादित्यवहायरुणगर्दतोयतुषिताव्याबाधमरुतः (अरिष्टाश्च) ॥२६॥ विजयादिषु द्विचरमाः ॥ २७ ॥ औपपातिकमनुष्येभ्यः शेषास्तिर्य.. ग्योनयः ॥ २८ ॥ स्थितिः ॥ २९ ॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ शेषाणां पादोने ॥ ३१ ॥ असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥ सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥ सागरोपमे ॥३४॥ अधिके च ॥३५॥ सप्त सानत्कुमारे ॥३६॥ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥ ३७ ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थसिध्धे च ॥३८॥ अपरा पल्योपममधिकं च ॥३९॥ सागरोपमे ॥४०॥ अधिके च ॥ ४१ ॥ परतः परतः पूर्वो पूर्वानन्तरा ॥ ४२ ॥ नारकाणां च द्वितीयादिषु ॥ ४३ ॥ दशवर्षसहस्त्राणि प्रथमायाम् ॥ ४४ ॥ भवनेषु च ॥ ४५ ॥ व्यन्तराणां च ॥ ४६ ॥ परा पल्योपमम् ॥ ४७ ।। ज्योतिष्काणामधिकम् ॥४८॥ ग्रहाणामेकम ॥ ४९ ॥ नक्षत्राणामर्धम् ॥ ५० ॥ तारकाणां चतुर्भागः ॥५१॥ जघन्या त्वष्टभागः ॥ ५२ ॥ चतुर्भागः शेषाणाम् ॥ ५३ ।।
इति श्रीतत्त्वार्थाधिगमेऽहत्प्रवचनसंग्रहे चतुर्थोऽध्यायः