________________
१०१
रितदुःखाः ॥ ४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ जंबूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥ ७॥ द्विढिविष्कंभाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कंभो जंबूद्वीपः ॥ ९ ॥ तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ।। १० ।। तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥ द्विर्धातकीखंडे ॥ १२ ॥ पुष्करार्धे च । १३ ।। प्राग्मानुषोत्तरान्मनुष्याः ॥ १४ ॥ आर्या म्लिशश्च ॥ १५ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ १६ ।। नृस्थिती परापरे त्रिपल्योपमान्तमुहूर्ते ॥ १७ ॥ तिर्यगयोनीनां च ॥ १८ ॥ . इति श्रीतत्त्वार्थाधिगमेऽहत्प्रवचनसंग्रहे तृतीयोऽध्यायः
चतुर्थोऽध्यायः देवाश्चतुर्निकायाः ॥१॥ तृतीयः पीतलेश्यः ॥ २॥ दशाष्ट. पश्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ।।३।। इन्द्रसामानिकत्रायस्त्रिशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश : ॥४॥ त्रायास्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः॥५॥ पूर्वयोज़न्द्राः ॥ ६ ॥ पीतान्तलेश्याः ॥७॥ कायप्रवीचारा आ ऐषानात् ॥ ८ ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः ॥ ९ ॥ परेऽप्रवीचाराः ॥ १० ॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ ११ ॥ व्यन्तराः किन्नरकिंपुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचाः ॥ १२ ॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्र