SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०८ स्पर्शादिषु ॥ १९ ॥ स्पर्शनरसनप्राणचक्षुः श्रोत्राणि ॥ २० ॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१ ॥ श्रुतमनिन्द्रियस्य ॥ २२ ॥ वाय्वन्तानामेकम् ॥ २३ ॥ कृमिपिपीलिका भ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४ ॥ संज्ञिनः समनस्काः ॥ २५ ॥ विग्रहगतौ कर्म - योगः ॥ २६ ॥ अनुश्रेणि गतिः ||२७|| अविग्रहा जीवस्य ॥ २८ ॥ विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ।। २९ ।। एकसमयोऽविग्रहः ॥ ३० ॥ एकं द्वौ नाहारकः ॥ ३१ ॥ सम्मूर्छनगर्भोपपाता जन्म ।। ३२ ।। सचित्तशीतसंवृत्ताः सेतरा मिश्राचैकशस्तद्योनयः ॥ ३३ ॥ जराखंडपोतजानां गर्भः ॥ ३४ ॥ नारक देवानामुपपातः ।। ३५ ।। शेषाणां संमूर्च्छनम् ॥ ३६ ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥ तेषां परं परं सूक्ष्मम् ||३८|| प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥ अनन्तगुणे परे ॥४०॥ अप्रतिघाते ॥ ४१ ॥ अनादिसंबंधे च ॥ ४२ ॥ सर्वस्य ||४३|| तदादीनि भाज्यानि युगपदेकस्या चतुर्भ्यः ॥ ४४ ॥ निरुपभोगमन्त्यम् ॥ ४५ ॥ गर्भसंमूर्छन जमाद्यम् ॥ ४६ ॥ वैक्रियमौपपातिकम् ।। ४७ ।। लब्धिप्रत्ययं च ॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥ न दे॒वाः ।। ५१ । औपपातिकचरम देहोत्तमपुरुषासंख्येवर्षायुषोऽनपवर्त्यायुषः ॥ ५२ ॥ इति श्रीतत्त्वार्थाधिगमेऽत्प्रवचनसङ्ग्रहे द्वितीयोऽध्यायः तृतीयोऽध्यायः रत्नशर्करावालुकापंकधूम तमोमहातमः प्रभा भूमयो घनांबुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥ १ ॥ तासु नरकाः ॥ २ ॥ नित्याशुभतरलेश्यापरिणाम देहवेदनाविक्रियाः ॥ ३ ॥ परस्परोदी
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy