________________
११२
षष्ठोऽध्यायः कायवाङमनःकर्म योगः॥१॥ स आस्रवः॥२॥ शुभः पुण्यस्य ॥ ३॥ अशुभः पापस्य ॥ ४ ॥ सकषायाकषाययोः सांपरायिकेर्यापथयोः ॥ ५ ॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुः पञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ६ ॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ॥ ७ ॥ अधिकरणं जीवाजीवाः ॥ ८ ॥ आद्य संरंभसमारंभयोगकृतकारितानुमतकषायविशेषैत्रिलिखिश्चतुश्चै कशः ॥ ९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ १० ॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ ११ ॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ १२ ॥ भूतव्रत्यनुकंपा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥ १३ ॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १४ ॥ कषायोदयात्तीवात्मपरिणामश्वारित्रमोहस्य ॥१५॥ बह्वारंभपरिग्रहत्वं च नारकस्यायुषः ॥१६॥ माया तैर्यग्योनस्य ॥ १७ ॥ अल्पारंभपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥१८॥ निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥ सरागसंयमसंयमासंयमाकामानिर्जराबालतपांसि दैवस्य ॥२०॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ विपरीतं शुभस्य ॥ २२ ॥ दर्शनविशुद्धिविनयसंपन्नता शीलव्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी संघसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ २३ ॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २४ ॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥ विघ्नकरणमन्तरायस्य ॥२६॥
इति श्रीतत्त्वार्थाधिगमेऽहत्प्रवचनसडआहे षष्ठोऽध्यायः