________________
८७
॥ १६६ ॥ सेव्यः क्षान्तिर्मार्दवमार्जवशौचे च संयमत्यागौ सत्यतपो ब्रह्माकिञ्चन्यानीत्येष धर्मविधिः || १६७ || धर्मस्य दया मूलं न चाक्षमावान् दयां समादत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥ १६८ ॥ विनयायत्ताश्च गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन्मादेवमखिलं स सर्वगुणभाक्त्वमाप्नोति ॥ १६९ ॥ नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्माते न मोक्षो मोक्षात्परमं सुखं नान्यत् ॥ १७० ॥ यद्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद्भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥ १७१ ॥ पचास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥ १७२ ॥ बान्धवधनेन्द्रियसुखत्यागात्त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहङ्कारममकारः ॥ १७३ ॥ अविसंवादनयोगः कायमनोवागजिता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥ १७४॥ अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्य तपः प्रोक्तम् ॥ १७५ ॥ प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः | स्वाध्याय इति तपः षट्प्रकारमाभ्यंतरं भवति ।। १७६ ।। दिव्यात्कामरतिसुखात्त्रिविधं त्रिविधेन विरतिरिति नवकं । औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ||१७७ || अध्यात्मविदो मूछ परिग्रहं वर्णयन्ति निश्चयतः । तस्माद्वैराग्येसोराकिञ्चन्यं परो धर्मः || १७८ ।। दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् । दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन * ।। १७९ ।। ममकाराहङ्कारत्यागादतिदुर्जयोद्धतप्रबलान् । इन्ति परीषहगौरव कषायदण्डेन्द्रियव्यूहान् ॥ १८० ॥ प्रवचनभक्तिः श्रुतसम्पदुद्यमो व्यतिकरश्च संविग्नैः । वैराग्यमार्ग सद्भाव भावधी स्थैर्यजनकानि ॥ १८१ ।। आक्षेपणी विक्षेपणी विमार्गबाधनसमर्थविन्यासा । श्रोतृजनश्रोत्रमनः प्रसादजननी यथा जननी || १८२ ॥