________________
८८
1
संवेदनीं च निर्वेदनीं च धर्म्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाश्च दूरात्परित्याज्याः ।। १८३ ।। यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुध्वे ध्याने व्यमं मनः कर्तम् ॥ १८४ ॥ शास्त्राध्ययने चाध्यापने च सचिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ।। १८५ ।। शास्वति वाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्टयर्थः । त्रैङिति च पालनार्थे विनिश्चितः सर्वशब्दविदाम् || १८६ ॥ यस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ।। १०७ ।। शासनसामर्थ्येन तु सन्त्राणबलेन चानवद्येन युक्त यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् ॥ १८८ ॥ जीवाऽजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नव पदार्थाः ॥ १८९ ॥ जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुःपञ्चषभेदाः ।। १९० ।। द्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुंनपुंसका ज्ञेया: । नारकतिर्यग्मानुषदेवाश्चतुर्विधाः प्रोक्ताः ।। १९१ ।। पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥। १९२ ॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाहज्ञानदर्शनादिपर्यायैः ॥ १९३ || सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च सो ऽष्टभेदचतुर्धा च ॥ १९४ ॥ ज्ञानाज्ञाने पञ्चत्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधि केवलदृग्विषयस्त्वनाकारः + ॥ १९५ ॥ fभावा भवन्ति जीवस्यौदायिकः पारिणामिकश्चैव । औपशमिक: क्षयोत्थः क्षयोपशमजश्च पञ्चैते । १९६ ॥ ते चैकविंशतित्रिद्विनवाष्टादशविधाश्च विज्ञेयाः । षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः।।। १९७ ।। एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः सुखं दुःखम् । सम्प्राप्नोतीत्यात्मा * सोऽष्टविकल्पः समासेन ॥ १९८ ॥ द्रव्यं