________________
८६
द्वादश विशुद्धाः || १५० ॥ इष्टजनसंप्रयोगर्द्धिविषयसुखसंपदस्तथारोग्यम् । देव यौवनं जीवितं च सर्वाण्यनित्यानि ॥ १५१ ॥ जन्मजरामरणभयैरभिद्रते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ १५२ ॥ एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १५३ ॥ अन्योऽहं स्वजनात्परिजनाश्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरिय न बाधते तं हि शोककलिः ॥ १५४ ॥ अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥ १५५ ॥ माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ १५६ ॥ मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाश्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥ १५७ ॥ या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ॥ १५८ ॥ यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा ।। १५९ ।। लोकस्याधस्तिर्यग्विचिन्तयेदूर्ध्वमपि च बाहुल्यम् । सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥ १६० ॥ धर्मोऽयं स्वाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः । येऽत्र रतास्ते संसारसागरं लील - योत्तीर्णाः ॥ १६१ ॥ मानुष्यकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥ १६२ ॥ तां दुर्लभां भवशतैर्लब्ध्वाप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात्कापथविलोकनाद्वौरववशाच्च ॥ १६३ ॥ तत्प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगम्यः । इन्द्रियकषायगौरवपरीषद् सपत्नविधुरेण ॥ १६४ ॥ तस्मात्परीषहेन्द्रियगौरवगणनायकान्कषायरिपून् । क्षान्तिबलमार्दवा - र्जवसन्तोषैः साधयेद्वीरः ॥ १६५ ॥ सचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च | त्रिकरणशुद्धमपि तयोः परिहारा सेवने कार्ये