________________
मात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवञ्च ॥ १३५ ॥ गुणवदमूर्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन। 'दारुपमधृतिर्भवति कल्प्यमास्वाद्यमास्वाद्यम् ॥ १३६ ॥ कालं क्षेत्रं मात्रां सात्म्यं द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्य मुङ्क्ते किं भेषजैस्तस्य ॥ १३७॥ पिण्ड: शय्या क्षणादि पात्रषणादि यच्चान्यत् । कल्प्याकल्प्यं सद्धर्मदेहरक्षानिमित्तोक्तम् ॥ १३८ ॥ कल्प्याकल्प्यविधिज्ञः संविग्नसहायको विनीतात्मा। दोषमलिनेऽपि लोके प्रविहरति मुनिनिरुपलेपः ।। १३९ ।। यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ १४० ॥ यद्वत्तरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १४१ ॥ ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तज्जयहेतोरशठं संयतते यः स卐 निर्ग्रन्थः ॥ १४२ ॥ यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत्तत्कल्प्यमकल्प्यमवशेषम् (-शिष्टम् ? ) ॥१४३ ॥ यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं प्रवचनकुत्साकरं यच्च ॥ १४४ ।। किञ्चिच्छुद्ध कल्प्यमकल्प्यं स्यास्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्र पात्र वा भेषजाचं वा ।। १४५ ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात्कल्पते कल्प्यम् ॥ १४६ ॥ तञ्चिन्त्यं तद्भाष्यं तत्कार्य भवति सर्वथा यतिना । नात्मपरोभयबाधकमिह यत्परतश्च सर्वाद्धम् ॥ १४७ ॥ सर्वार्थेष्विन्द्रियसङ्गतेषु वैराग्यमार्गविघ्नेषु । परिसङ्घयानं कार्य कार्य परमिच्छता नियतम् ॥ १४८ ॥ *भावयितव्यमऽनित्यत्वमऽशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च ।। १४९ ॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना 1-दारुपमधृतिना भ. इति पाठा.