________________
गुप्तहृदयस्य । न तदस्ति कालविवरं यत्र कचनाभिभवनं स्यात् ॥ ११९ ॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः ॥ १२० ॥ क्षणविपरिणामधर्मा मानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥ १२१ ॥ भोगसुखैः किमनित्यैर्भयबहुलैः काङ्क्षितैः परायत्तैः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१२२॥ यावत्स्वविषयलिप्सोरऽक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो यत्नः ॥ १२३ ॥ यत्सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः ॥१२४ । इष्टवियोगाप्रियसम्प्रयोगकाङ्क्षासमुद्भवं दुःखम् । प्राप्नोति यत्सरागो न संस्पृशति तद्विगतरागः ॥ १२५ ॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ॥ १२६ ॥ सम्यग्दृष्टिानी ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं लभते न गुणं यं प्रशमगुणमुपासितो लभते ॥१२७॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १२८ ॥ सन्त्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितलोभरोषमदनः सुखमास्ते निर्जरः साधुः ॥ १२९ ॥ या चेह लोकवार्ता शरीरवार्त्ता तपस्विनां या च । सद्धर्मचरणवार्तानिमित्तकं तवयमपीष्टम् ॥ १३० ॥ लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरुद्धं च सन्त्याज्यम् ॥ १३१॥ देहो नासाधनको लोकाधिनानि साधनान्यस्य । सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः ॥ १३२ ।। दोषेणानुपकारी भवति परो येन येन विद्विष्टः । स्वयमपि तहोषपदं सदा प्रयत्नेन परिहार्यम् ॥ १३३ ॥ पिण्डैषणानिरुक्तः कल्प्याकल्प्यस्य यो विधिः सूत्रे । ग्रहणोपभोगनियतस्य तेन नैवाऽऽमयभयं स्यात् ॥ १३४ ॥ व्रणलेपाक्षोपाङ्गवदसङ्गयोगभर