________________
॥ १०३ ॥ तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् ॥ १०४॥ तत्कथमनिष्टविषयाभिकाङ्क्षिणा भोगिना वियोगो वै। सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः ॥ १०५ ॥ आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः । निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः ॥ १०६ ॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥ १७ ॥ यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत्स्वादु । विषयंयुक्त मुक्त विपाककाले विनाशयति ॥१०८।। तद्वदुपचारसम्भृतरम्यकरागरससेविता विषयाः । भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥ १०९ ॥ अपि पश्यतां समक्षं 'विषयपरिणामनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान्मानुषान् गणयेत् ॥ ११० ॥ विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्य । द्विगुणोऽपि च नित्यमनुग्रोऽनवद्यश्च सश्चिन्त्यः॥१११॥ इति गुणदोषविपर्यासदर्शनाद्विषयमूर्च्छितो ह्यात्मा । भवपरिवर्तनभिरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥ सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः। पञ्चविधोऽयं विधिवत्साध्वाचारः समनुगम्यः ॥ ११३ ॥ ॥ षड्जीवकाययतना लौकिकसन्तानगौरखत्यागः । शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्प्यम् ॥११४॥ संसारादुद्वेगः क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगः तपोविधिोषितां त्यागः ॥ ११५ ॥ विधिना भैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्या । ईर्याभाषाम्बरभाजनैषणावग्रहाः शुद्धाः ॥ ११६ ॥ स्थाननिषद्याव्युत्सर्गशब्दरूपक्रियाः परान्योऽन्या । पञ्चमहाव्रतदाव्य विमुक्तता सर्वसङ्गेभ्यः ॐ ॥ ११७ ॥ साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः । सम्यगनुपाल्यमानो रागादीन्मूलतो हन्ति ॥ ११८ ॥ आचाराध्ययनोक्तार्थभावनाचरण1-नियतमनियतं इति पाठा.