________________
८२
मुपयाति । बलहीनोऽपि च बलवान् संस्कारवशात्पुनर्भवति ॥ ८७ ॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि ॥ ८८ ॥ उदयोपशमनिमित्तौ लाभालाभावनित्यकौ मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥ ८९ ॥ परशक्त्यभिप्रसादात्मकेन किञ्चिदुपभोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥ ९० ॥ ग्रहणो - ग्राहणनवकृतिविचारणार्थावधारणाद्येषु । बुद्धधङ्गविधिविकल्पेष्वनन्तपर्यायवृध्धेषु ।। ९९ ।। पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः कथ स्वबुद्धया मदं यान्ति ॥ ९२ ॥ द्रमकैरिव चाटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ॥ ९३ ॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तं वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ ९४ ॥ माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैव । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः ।। ९५ ।। सम्पर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वं मदहरं तेनैव मदः कथं कार्यः ॥९६॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्मादः स्वहृदयस्य संसारवृद्धिश्च ।। ९७ ।। जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्वेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ।। ९८ ।। सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च सन्त्याज्यः ॥ ९९ ॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ १०० ॥ कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥ १०१ ॥ देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति ॥ १०२ ॥ अपरिगणितगुणदोषः स्वपरोभयबाधको भवति यस्मात् । पब्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्धः