________________
दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ ७१ ॥ *विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥ ७२ ॥ संवरफलं तपोबलमथ तपसो निर्जराफलं दृष्टम् । तस्मास्क्रिीयानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ७३ ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ७४ ॥ विनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीलाः। त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्विग्नाः ॥१५॥ केचित्सातद्धिरसातिगौरवात्साम्प्रतक्षिणः पुरुषाः । मोहात्समुद्रवायसवदामिषपरा विनश्यन्ति ॥ ७६ ॥ ते जात्यहेतुदृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवायसायनमुपनीतं नाभिनन्दन्ति ॥७७|| यद्वत्कश्चित् क्षीरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तादि तेन्द्रियवाद्वितथमतिर्मन्यते कटुकम् ॥ ७० ॥ तद्वन्निश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्वेषोदयोवृत्ताः ॥७९॥ जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति ॥ ८० ॥ ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ॥ ८१ ॥ नैकाञ्जातिविशेषानिन्द्रियनिवृत्तिपूर्वकान्सत्त्वाः । कर्मवशागच्छन्त्यत्र कस्य का शाश्वती जातिः ॥ ८२ ।। रूपबलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि ननु कुलमानः परित्याज्यः ॥ ८३ ॥ यस्याशुध्धं शीलं प्रयोजनं तस्य किं कुलमदेन । स्वगुणाभ्यलङ्कृतस्य हि किं शीलवतः कुलमदेन ।। ८४ ॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशोऽस्ति रूपस्य ॥ ८५॥ नित्यं परिशीलनीये त्वङ्मांसाच्छादिते कलुषपूर्णे। निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ॥ ८६ ॥ बलसमुदितोऽपि यस्मान्नरः क्षणेन विबलत्व