________________
रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ ५५ ॥ एवं रागद्वेषौ मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥ ५६ ॥ कर्ममयः संसारः संसारनिमित्तकं पुनदुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेर्मूलम् ॥ ५७ ॥5 एतद्दोषमहासञ्चयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥ ५८ ॥ अस्य तु मूलनिबन्धं ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपःस्वाध्यायध्यानयुक्तस्य ॥ ५९ ॥ प्राणवधानृतभाषणपरधनमैयुनममत्वविरतस्य । नवकोटयुद्गमशुद्धोञ्च्छमात्रयात्राधिकारस्य ॥ ६०॥ जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलाङ्गसहस्रधारणकृतप्रतिज्ञस्य ॥ ६१ ॥ परिणाममपूर्वमुपागतस्य शुभभावनाध्यवसितस्य । अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥ ६२ ।। वैराग्यमार्गसम्प्रस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता-॥६३॥ भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्थ ॥ ६४ ॥ आरोग्यायुर्बलसमुद्याश्वला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः ॥ ६५ ॥ शास्त्रागमाइते न हितमस्ति न च शास्त्रमस्ति विनयमृतेः। तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥ ६६ ॥ कुलरूपवचनयौवनधनमित्रैश्वर्यसम्पदपि पुंसाम् । विनयप्रशमविहीना न शोभते निर्जलेव नदी ॥६७॥ न तथा सुमहाध्यैरपि वस्त्राभरणैरलङ्कृतो भाति । श्रतशोलमलनिकषो विनीतविनयो यथा भाति ॥ ६८ ॥ गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गुर्वाराधनपरेण हितकाक्षिणा भाव्यम् ॥ ६९ ॥ धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥७॥