________________
मया प्रपन्नोऽसि समग्रवाञ्छित
प्रदस्त्वमेव प्रभुराप्तशेखरः। स्वसेवकं चेदुररीकरोषि मां ,
त्वमप्यवाप्नोमि तुलां तवैव तत् ॥ १५ ॥ ध्यायन्ति ये नाथ ! परद्वयं ते ,
पदद्वयं ते सुधियो लभन्ते । महोदयं वा सुमनोमनो वा ,
सदैव दाता हि पदं ददाति ॥ १६ ॥ भवन्तु ननं सुकृतानि तानि मे ,
सदा मनो मे भुवनैकबान्धव ! इदं निलीनं तव पादपङ्कजे ,
दृढानुबन्धं चलतां जहाति यैः ॥ १७ ॥
ज्ञाने जिनेन्द्र ! तव केवलनाम्नि जाते , लोकेषु कोमलमनांसि भृशं जहर्षुः । प्रद्योतने समुदिते हि भवन्ति किं नो , पद्माकरेषु जलजानि विकासभाजि ॥१८॥ अनन्तविज्ञानमतीतदोष
मबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं ,
स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १६ ॥
मूत्ति की सिद्धि एवं मूर्तिपूजा की प्राचीनता-१६७