________________
* दुष्टात्मा *
[ ४१ ] जन्तूद्धरणबुद्धींश्च, श्रमरणांश्च महात्मनः । दुष्टात्मा पीडयन् पीडां, लभते नमुचिर्यथा ॥ ४१ ॥
पदच्छेदः-जन्तून् उद्धरणबुद्धीन् च श्रमणान् च महात्मनः दुष्टात्मा पीडयन् पीडां लभते नमुचिः यथा ।
अन्वयः-दुष्टात्मा जन्तून् उद्धरणबुद्धीन् च श्रमरणान् महात्मनः च पीडयन् पीडां लभते यथा नमुचिः ।
शब्दार्थः-दुष्टात्मा=दुष्टजन, जन्तून् जीवों को, उद्धरणबुद्धीन् = उद्धार करने की बुद्धिवालों को, श्रमणान् = साधुओं को, महात्मनः=महात्माओं को, पीडयन् पीड़ा देता हुआ, पीडां दुःख को, लभते पाता है। यथा = जैसे, नमुचिः =नमुचि । ___श्लोकार्थः-दुष्टात्मा मानव क्षुद्र जीवों को, उद्धार करने की बुद्धि वाले साधुओं और महात्माओं को पीड़ा देता हुआ स्वयं दुःख प्राप्त करता है; जैसे नमुचि ने दुःख प्राप्त किया ।
संस्कृतानुवादः-दुष्टात्मा मानवः क्षुद्रजन्तून् उद्धरणबुद्धीन् साधून महात्मनश्च पीडयन् स्वयं दुःखं प्राप्नोति । यथा नमुचिना दुःखमनुभूतम् ।। ४१ ।।
(
४२
)