________________
[६] प्रशस्यः स्यात् सुरेन्द्राणां, प्रारणी भूताभयप्रदः । इव पारावतत्राता, श्रीशान्तिः पूर्वजन्मनि ॥ ६ ॥
पदच्छेदः-प्रशस्यः स्यात् सुरेन्द्राणां प्राणी भूताभयप्रदः इव पारावतत्राता श्रीशान्तिः पूर्वजन्मनि ।
अन्वयः-भूताभयप्रदः प्राणी सुरेन्द्राणां प्रशस्यः स्यात् पूर्वजन्मनि पारावतत्राता श्रीशान्तिः इव ।
शब्दार्थः-भूतानां अभयप्रदः भूताभयप्रदः प्राणियों को अभय देने वाला, प्राणी मानव, सुराणां इन्द्राः तेषां सुरेन्द्राणां देवेन्द्रों का, प्रशस्यः प्रशंसनीय, स्यात् =होवे, पूर्वजन्मनि पूर्व जन्म में, पारावतस्य त्राता पारावतत्राता= कबूतर की रक्षा करने वाले, श्रीशान्तिः इव=श्रीशान्तिनाथ जिनेन्द्र की तरह।
श्लोकार्थः-सब प्राणियों को अभय देने वाला प्राणी देवेन्द्रों की भी प्रशंसा का पात्र बनता है। जैसे पूर्व जन्म में कबूतर की रक्षा करने वाले श्री शान्तिनाथ जिनेन्द्र प्रशंसा के पात्र हुए।
संस्कृतानुवादः-सर्वभूतानां अभयप्रदः मानवः देवेन्द्राणां अपि प्रशस्यो भवति । यथा पूर्वजन्मनि पारावतस्य रक्षां कृत्वा श्रीशान्तिनाथ जिनेन्द्रः सर्वेषां प्रशस्यतरः संजातः ।। ६ ।।
( १० )