________________
[६] दानं दद्याद् यथाशक्ति निः श्रेयसनिबन्धनम् । .. सुपात्रेषु गृही श्रीमान् , श्रेयांस इव सिद्धये ॥ ६ ॥
पदच्छेदः-दानं दद्यात् यथाशक्ति निःश्रेयसनिबन्धनम् , सुपात्रेषु गृही श्रीमान् श्रेयांसः इव सिद्धये ।
...अन्वयः-गृही सुपात्रेषु यथाशक्ति निःश्रेयसनिबन्धनम् दानं दद्यात् सिद्धये श्रीमान् श्रेयांसः इव ।
शब्दार्थः-गृही=गृहस्थजन, सुपात्रेषु सत्पात्र में, यथाशक्ति शक्तिमनतिक्रम्य यथाशक्ति शक्ति के अनुसार, निःश्रेयसस्य निबन्धनं, निःश्रेयसनिबन्धनम् मुक्ति का मुख्य कारण, दानं त्याग, दद्यात् देना चाहिए। यथा जैसे, सिद्धये मुक्ति के लिए, श्रीमान् ऐश्वर्यशाली, श्रेयांसः इव-श्रेयांस राजा की तरह।
श्लोकार्थः-गृहस्थ को सुपात्र में यथाशक्ति मुक्तिकल्याण का कारण दान देना चाहिए, जैसे कि सिद्धि के लिए राजा श्रेयांस ने दिया। ... संस्कृतानुवादः-धीमता गृहस्थेन सुपात्रेषु यथाशक्ति मुक्तिकारणभूतं दानं दातव्यम् । यथा नृपतिना श्रेयांसेन सिद्धये दानं दत्तमिति ।। ६ ।।