________________
* असत्यम् *
[ १०३ ] संसारभीरुवितथ - मधोगति - निबन्धनम् । उपरोधाद् भयाद् वापि, न वदेत् कालिकार्यवत् ॥ १०३॥
पदच्छेदः-संसारभीरुः वितथम् अधोगतिनिबन्धनम् उपरोधात् भयाद् वा अपि न वदेत् कालिकार्यवत् ।
अन्वयः-संसारभीरुः कालिकार्यवत् उपरोधात् भयाद् वा अपि अधोगतिनिबन्धनम् वितथम् न वदेत् ।
शब्दार्थः-संसारभीरुः संसार से डरने वाला व्यक्ति, कालिकार्यवत् कालिकार्य की तरह, उपरोधात्=किसी के आग्रह करने से, भयात्=भय से, वा=अथवा, अपि भी अधोगतेः निबन्धनम्, अधोगतिनिबन्धनम् अवनति का कारण, वितथम् =असत्य को, न वदेत् नहीं बोलना चाहिए।
श्लोकार्थः-संसार से डरने वाला व्यक्ति कालिकार्य की तरह किसी के आग्रह करने से अथवा भय से भी अवनति के मूल कारण असत्य को नहीं बोले ।
संस्कृतानुवादः-संसारभीरुर्जनः कालिकार्यवत् उपरोधाद् भयाद्वाऽपि अवनतेः कारणभूतमसत्यं कदापि न कथयेत् ।। १०३ ॥
( १०४ )