________________
[ ६६ ] । मूलश्लोकःजिनोक्तो धर्मोऽयं प्रभवति यथा विश्ववलये , तथा कार्यो यत्नः प्रवचनविधौ वक्ति सुमुनिः । लतावन्नो धर्मः स्वयमिह जगत्यां प्रसरति , द्वयं चाङ्ग तस्य प्रवचनविधानं जिनगृहम् ॥ ६६ ॥ _ संस्कृतभावार्थः-त्रिकालदशिना वीतरागेण विभुना श्रीजिनेश्वरदेवेन प्ररूपितो धर्मो येन प्रकारेण विश्वस्मिन् विश्वे प्रचार प्रसारमाप्नुयाद्, तेन प्रकारेण सर्वदा सर्वथा निष्ठया श्रद्धया पूर्णमनोयोगेन प्रयत्नो विधेयः । विशुद्धोऽयं श्रीजैनधर्मः लतेव संसारचक्रे प्रसरति । साम्प्रतमपि तत्त्वमनीषिभिः मुनीश्वरैः स्वकीयेषु प्रवचनकालेषु प्रोच्यते। यत् अस्य समुचितप्रकारेण प्रचारस्य प्रसारस्य च सर्वोत्कृष्टं साधनयुगलं आस्ते-प्रवचनं जिनमन्दिरञ्च । __* हिन्दी अनुवाद-त्रिकालदर्शी वीतराग विभु श्रीजिनेश्वरदेव द्वारा भाषित यह धर्म, जिस प्रकार भी सम्पूर्ण विश्व की सद्भावना सदाचरण का विषय बने, उसी प्रकार शुभ प्रयत्न करना चाहिए। यह विशुद्ध जैनधर्म सुन्दरलता (वेलड़ी) के समान विश्व में फैल रहा
-- ८८ --