________________
स्याद्वादबोधिनी-६६
निश्चयार्थकः । स्वार्थावबोधनक्षम एव वस्तुरूपं प्रकाशयति । यदि ज्ञानं स्वप्रकाशार्थं ज्ञानान्तरमपेक्षते तदपि परं ज्ञानम्, तदपि परं एवं सति अनवस्थादोषः । अतः स्वार्थावबोधक्षमः । ___कुमारिलभट्टस्तु सर्वं ज्ञानं परोक्षं मनुते । नैव स्वार्थप्रकाशने न क्षमः सर्वं ज्ञानं परोक्षम् । परोक्षज्ञाने ज्ञानान्तरस्यापि अपेक्षा भवति । नहि उत्पद्यमानः प्ररोहः फलं प्रयच्छति । अनुकूलजलादिदानान्तरम् एव तत्र प्रकाशकता प्राकट्यं ज्ञानान्तरेण जायते । यथा द्विबद्धं सुबद्धं भवति । तथा सति अनवस्था नदी दुस्तरणीया। अतस्तन्मतं न युक्तम् । एकस्मिन् क्रियाविरोधः, युक्तिस्तेन कथ्यते तामपि निराकरोति । एककालावच्छेदेनापि क्रियान्तरं दृश्यते, न विरोधः ।
जैनाः परिणामवादिनो भवन्ति । लोभायितः पुरुषः परकीयं पतितं विस्मृतं वस्तु प्रेक्ष्य यस्मिन् काले परिणमति तस्मिन्न व काले गृह्णाति । नहि कालान्तरमपेक्ष्यते यस्मिन् काले दन्ताश्चर्वयन्ति तस्मिन् काले रसना रसान् स्वादते। अतो विरोधाभावः । यस्मिन् काले कुण्डलीकाले स्वात्मना स्वात्मानं वेष्टयति तस्मिन्न व काले तत्र कर्तत्वं कर्मत्वं करणत्वं त्रितयमविरोधेन तत्र वर्तन्ते ।