________________
स्याद्वादबोधिनी-६५
[ १२ ] सम्प्रति नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानां एकात्मसमवायिज्ञानान्तरवेद्य ज्ञानवादिनां च यौगानां मतं दूषयन्नाह卐 मूल श्लोकःस्वार्थावबोधक्षम एव बोधः ,
प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि,
प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥ * अन्वयः-बोधः स्वार्थावबोधक्षमः, एव अन्यथा तु अर्थकथा न प्रकाशते । परेभ्यः भयतः परे अनात्मनिष्ठं ज्ञानं प्रपेदिरे ।
ॐ स्याद्वादबोधिनी-ज्ञानं स्वात्मानं प्रकाशयन् वस्तु प्रकाशयति परतो वेति विषये विवदन्ते । तत्र भट्टमतं योगाचार्य मतं निराकरिष्णुराचार्यः कटाक्षयन्नाह । स्वार्थावबोध इति । पूर्व स्वमतं प्रकाशयति-बोध:-बुध्यते ज्ञायते पदार्थजातं येन सः । बुध् धातोः 'करणाधिकरणयोश्च' इति सूत्रेण घञ् प्रत्यये गुणे च कृते बोधः =ज्ञानम् । स्वस्य अर्थः स्वार्थः तस्य बोधो ज्ञानम् तस्मिन् क्षमः=समर्थ एवेति