________________
स्याद्वादबोधिनी - ४४
स्याद्वादबोधिनी -सतो भावः सत्ता सा श्रीजैनमते सर्वत्र वर्त्तते । सर्वे पदार्थाः सद्रूपाः । वैशेषिक - न्यायनये द्विधा सत्ता प्रोक्ता परापरभेदात् । परा तु अधिदेशवर्त्तिनी । सापि नैव सर्वत्र ।
वैशेषिका : द्रव्य - गुण - कर्म सामान्य विशेषान् षट् पदार्थान् तत्त्वतया स्वीकुर्वन्ति । तत्र 'पृथ्व्यापस्तेजोवायुराकाशः कालो दिगात्मा मनः' इति नवद्रव्याणि । अन्यच्च चतुर्विंशतिगुणास्तद् यथा - 'रूप-रस- गन्ध-स्पर्शसङ्ख्या परिमाणानि पृथक्त्व-संयोग-विभाग- परत्वाऽपरत्वबुद्धि- सुख-दुःखेच्छा-द्व ेष प्रयत्नाश्चेति सप्तदश । चकारेण समुदिताश्च सप्त द्रवत्व- गुरुत्व-संस्कार-स्नेह-धर्माऽधर्मशब्दाश्चेत्येवं चतुर्विंशति गुणाः । संस्कारस्य वेगभावनास्थिति-स्थापकभेदात् त्रैविध्येऽपि संस्कारत्वजात्यपेक्षया एकत्वात्, शौर्य-प्रौदार्यादीनां चात्रैवान्तर्भावान् नाधिक्यम् । पञ्चकर्मारिण, तद् यथा - उत्क्षेपणाऽवक्षेपणाऽऽकुञ्चनप्रसारण - गमनानि ।
-
-
-
वैशेषिकमतेन 'द्रव्यादित्रिक वृत्तिस्तु सत्ता परतयोच्यते । सा सत्ता परसामान्यं महासामान्यं वा कथ्यते । द्रव्यगुणकर्मेषु सा सत्ता । न च सामान्य विशेषसमवायेषु । यद्यपि द्रव्यादिषु षट्ष्वपि पदार्थेष्वास्तित्वमस्ति तथापि सा