________________
स्यादवादबोधिनी - ३६
समवायस्य
वायतिनोः, क्रियाक्रियावन्तोः, नित्यपदानामिति । जैनमते स्वस्वरूपतामेव सम्भवति न हि विरूपवताम् । नित्यत्वमेकत्वमपि नास्ति । यथा - नित्यश्चैक आकाशः सर्वान् प्रदेशान् व्याप्नोति तथा भवदीयः समवायः कुतो न युगपद् व्याप्नोति तस्मान्न को नित्य - श्चेति यथा पूर्वपक्षी व्याप्तिः सदोषा तथैव सर्वापि परिकल्पना सदोषा । ननु गुरणादागतो गौरण: गुणमूलकोऽपि भेदो दृश्यतेऽतः तमाश्रित्य धर्मधर्मिणो भेदव्यवहारः । तल्लक्षणं चेदम्
अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गच ेति । मुख्योऽव्यभिचारी भवति । श्रविकलः एकमात्रवृत्तिः । असाधारणोऽन्तरङ्गः न तु बाह्यः । तद्भिन्न एव गौरण:, धर्मधर्मिणोर्मुख्यता एव दृश्यते, न तु गौणता । धर्माः, धर्मिणं न व्यभिचरन्ति । तस्मात् वैशेषिकदर्शनाभिमतो भेदो निरस्तः ।
अयं भावः - वैशेषिकाः धर्मधर्मिणौ सर्वथा भिन्नाविति स्वीकुर्वन्ति । एतयोर्द्वयोभिन्नपदार्थयोः समवायेन सम्बन्धो भवति । जैनाः कथयन्ति यत् यथा द्वयोः पाषाणखण्डयोः योजकः स्निग्धः कश्चित् पदार्थ ( लेपः ) अस्माभिः साक्षात् दृश्यते न तथा
समवायसम्बन्धः । अतः