________________
स्याद्वादबोधिनी-३८
[७ ] __ अथ चैतन्यादयो रूपादयश्च धर्माः प्रात्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबद्धाः सन्तो धर्मर्मिण्यपदेशमश्नुवते तन्मतं दूषयन्नाहॐ मूलश्लोकःन धर्म - मित्वमतीवभेदे ,
वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ ,
न गौणभेदोऽपि च लोकबाधः ॥ ७ ॥
* अन्वयः-(धर्म-धर्मिणोः) अतीवभेदे धर्ममित्वम्, न वृत्या, अस्ति इति चेत् त्रितयं न चकास्ति। इह च वृत्तौ इदम् इति मतिः अस्ति (चेत्) गौणभेदः अपि च लोकबाधः ।। ७ ।।
+ स्याद्वादबोधिनी-परे धर्म - धर्मिणोनितरां भेदं स्वीकुर्वन्ति, तन्मतं निरस्यत्याचार्यः । धर्मः अस्ति अस्मिन् इति धर्मी धर्मश्च धर्मी चेति धर्मधर्मी तयोर्भावः धर्म-मित्वम् । पूर्व द्वन्द्व विधाय पश्चात् त्व प्रत्ययः । वैशेषिकमते नित्यः सम्बन्धः समवायः स चैकः । केषां स भवति ? गुण-गुणिनोः, जाति-व्यक्त्योः , अवयवा