________________
स्याद्वादबोधिनी-१७
भाष्यकार:- वसन्ति अनेके धर्मा यस्मिन् तद्-वस्तु पदार्थसार्थो वा सर्वे पदार्थाः सामान्य विशेषोभयधर्माणो भवन्ति । नहि निर्विशेषं सामान्यमस्त्यतो भावान्तरं विनैव सर्वे पदार्था एकाकार - प्रतीतिविषया भवन्ति । अयं प्रमाणनयस्य विषयः, नैगमनयो वा । प्रधानीकृत्य वस्तुविचारे तु सर्वे पदार्थाः द्रव्यतो भिन्नाः भासन्ते । न हि घटः मृत पदेन कथ्यते, मृद्विकाराः मृद्भिन्ना एव भवन्ति । इमं वादं व्यावृत्तिवाच्यम् । व्यावृत्ति र्व्यवहारो वा लक्षणस्य प्रयोजनं क्षणिकवादं पर्यायवादं वा प्रवदन्ति जैनाः सौगताश्चैतेन पूर्वार्द्धा व्याख्यातः ।
वैशेषिक - न्यायनयेन सामान्य- विशेषौ पृथक्-पदार्थों नित्यत्वे सति अनेकसमवेतत्वम् सामान्यं जातिर्वा । समानानां भावसामान्यं नाना व्यक्तिषु एकैव जाति: प्रतीयतेऽतो व्याकरणदर्शने 'जातावेकवचनम् ' 'द्रोणो व्रीहि:' । नहि एकोव्रीहि द्रोणपरिमाणवान् भवति । अतो न्यायदर्शने धूमत्वेन रूपेण वह्नित्वेन रूपेण सर्वेषां धूमादीनामुपस्थितौ यत्र यत्र धूमस्तत्र तत्र वह्निनरिति व्याप्तिग्रहो जायते । अन्यथा अधिकरणभेदेन द्वयोर्भेदात् व्याप्तिग्रहो एकाकारप्रतीतो सामान्यबलेनैव
न स्यात् । अतः भेदाभाव:, न तु स्वत इति न्यायविदो मन्यन्ते । नित्य