________________
स्याद्वादबोधिनी-१६
[ ४ ] अथ यथावन्नयवर्त्मविचारमेव प्रपञ्चयितु पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वन्नदितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तः पातिनौ प्रथमतरं सामान्य-विशेषौ दूषयन्नाह
ॐ मूलश्लोकःस्वतोऽनुवृत्तिव्यतिवृत्तिभाजः ,
भावाः न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्म-तत्त्वाद् ,
द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ ४ ॥ * अन्वयः-भावाः, स्वत एव, अनुवृत्तिव्यतिवृत्तिभाजः, भावान्तरनेयरूपाः न । अकुशलाः परात्मतत्त्वात् अतथात्मतत्त्वात्, द्वयं वदन्तः स्खलन्ति, इत्यन्वयः ।
ॐ स्याद्वादबोधिनी-भवनं भावः । भावशब्दो घञ् प्रत्ययान्त-भवनक्रिया-कालत्रयावच्छिन्ना, भवन्ति भविष्यन्ति, अभवन् इत्यादि। कालभेदेन शब्दा: भिन्नार्थका भवन्ति । रामो बभूव, भवति, भविष्यति-पत्र वर्तमाने लट्, परोक्षे लिट्, भविष्यति लुट् ।