________________
स्याद्वादबोधिनी-१३
अयं भावः-न्याय-वेदान्तादिदर्शन-मन्तारो नित्यज्ञानवन्तं केवलमीश्वरं मन्यते न तु वर्द्धमानम्-अस्मदादिवत् कर्मक्षयाज्जन्यज्ञानवन्तम् । अतोऽ सौ नैव सर्वेषां स्वामी भवितुमर्हति तथापि यथार्थवादिनं सर्वे परमादरेण मन्यन्ते । भवन्तोऽप्यसूयां विहाय वीतरागो महावीर इति प्रवदन्तु । तदुक्तमनेकान्तवादं मा खण्डयन्तु । ___ ननु यदि भगवान् श्रीमहावीरो यथार्थवक्ता तदा प्रार्थनयालम् । तादृशि जनाः स्वयमेवानुरक्ताः भवन्ति । तादृशे भगवते के न स्पृहयन्ति । गुणेषु सर्वे पक्षपातिनो भवन्ति । सत्यम्-पापोयान् दृष्टि वादोऽयं नियमेन सत्यं जानन् अपि न स्वोकुर्वन्ति । अतो भवतो न प्रार्थयामहेहितमनोषया कथ्यते । यदा कट्वौषधं हितकारिवचसा रोगिणा पोयते तदा तस्यैव लाभः न परस्येति । यथाधर्मोपदेष्टारो जनसाधारणहितकामनया धर्ममुपदिशन्ति । यः श्रोता श्रुत्वा तथाकरोति तस्यैव लाभो न तूपेक्षकस्य । वक्तृभ्यस्तु एकान्तलाभ एव 'परोपकाराय सतां विभूतयः' 'परोपकारं सफलं गिरन्ति' ।
- भाषानुवाद - श्लोकार्थ-हे स्वामिन् । यद्यपि आपके गुणों के प्रति ईर्ष्या भाव के कारण दोषदर्शन करने वाले अन्य मतानु