________________
स्याद्वादबोधिनी-१२
अथ येऽत्र शास्त्रान्तर-वासना-वासिताः त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः तानपि तत्त्वविचारणां प्रति शिक्षयन्नाह
ॐ मूलश्लोकःगुणेष्वसूयां दधतः परेऽमी ,
मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमोल्य विलोचनानि ,
विचारयन्तां नयवर्त्म सत्यम् ॥ ३ ॥ * अन्वयः-अमी परे गुणेषु, असूयाम्, दधतः भवन्तम् ईशम्, मा शिश्रियन् नाम। तथापि, विलोचनानि संमील्य, सत्यं, नयवर्त्म विचारयन्ताम्, इत्यन्वयः ।।
# स्याद्वादयोधिनी-अमी-'अदसस्तु विप्रकृष्टे' इति नियमेन अमी परेऽ न्यमानुगाः, भवतो गुणेषु यथार्थवादिषु असूयाम् = गुणेषु दोषाविष्करणं दधतो विभ्राणाः, नामेति-प्रसिद्धौ, भवन्तं स्वामिनं मा-न, अशिश्रियन् । स्वामित्वेन नैव स्वीकुर्वन्तु-न स्वीक्रियताम् परैरिति तथापि तान् प्रति ब्र मो यल्लोचनानि ज्ञाननेत्राणि निमील्य, सत्यं-यथार्थं नयवर्त्म-न्यायमार्ग नीतिराजपथं विचारयन्ताम्-विभावयन्तु ।