________________
स्यादवादबोधिनी-३
तन्न युक्तम् । नेदं स्यात् पदं संशयद्योतकं क्रियापदम् । अपि तु विभक्ति प्रतिरूपकमव्ययम् । यथा श्रहं युः, अस्ति, क्षीरा गौः इत्यादिः । क्रियावाचकत्वे समासो न स्यात् । सर्वत्र सह सुपेत्यधिकारात् सुबन्तेन सह सुबन्तं समस्यते । स्याद् इत्यव्ययमनेकार्थ - वाचकं ज्ञेयम् । न चैकान्तवादेन विश्वव्यवहारः प्रचलति । अतः स्याद्वादः सर्वैरेव स्वीकृतः । केचनाक्षिपन्ति प्रथम विशेषणेन सर्वं सेत्स्यति, व्यर्थमन्यदिति चेन्न । भिन्नमतानुगामिभिः परिकल्पितमाप्तव्यवच्छेदार्थं परेषां विशेषणानां
अतः
सार्थक्यम् ।
अहं श्री हेमचन्द्राचार्य अनन्तज्ञानधारिणं निर्दोषमनतिक्रमणीयं स्याद्वाद सिद्धान्तसमवेतं देववन्द्यं प्रमुखयथार्थवक्तारं स्वयं सम्बुद्ध श्रीमन्तं वर्द्धमानं ( वीरं महावीरं ) जिनं ( राग-द्व ेषादि-जेतारम् ) स्तोतुम् - स्तुतिविषयी तुम् ( प्रार्थयितुम् ) यतिष्ये यत्नं करिष्ये ।
भाषानुवाद
कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरीश्वरजी महाराजश्री ने दो द्वात्रिंशिका (बत्तीसी) की संस्कृतभाषा में पद्य में सुन्दर रचना की है, जिनके नाम हैं (१) प्रयोगव्यवच्छेदिका (२) श्रन्ययोगव्यवच्छेदिका । प्रसिद्ध टीकाकार
और