________________
स्याद्वादबोधिनी - २
[ १ ]
* मूलस्तुति प्रारम्भः *
5 मूलश्लोक:
अनन्तविज्ञानमतीतदोष
,
मबाध्य - सिद्धान्तममर्त्यपूज्यम् ।
श्रीवर्द्धमानं जिनमाप्तमुख्यं,
स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १ ॥
* अन्वयः - अहम्, अनन्तविज्ञानम्, अतीतदोषम्, अबाध्य सिद्धान्तम्, अमर्त्यपूज्यम्, प्राप्तमुख्यम्, स्वयम्भुवम्, श्रीवर्द्धमानं जिनं स्तोतु यतिष्ये, इत्यन्वयः ।
15 स्याद्वादबोधिनी - अस्मिन् श्लोके पूर्वार्द्ध भगवतः श्रीमहावीरस्य चत्वारि विशेषणानि प्रोक्तानि । तैर्विशेषणैश्चत्वारोऽतिशयाः प्रदर्शिताः । अनन्तविज्ञानपदेन मूलतो घातिकर्मक्षयात् केवलज्ञानोदयेन ज्ञानातिशयः, प्रतीतदोषविशेषेण - प्रष्टादशदोषक्षयाद अपायापगमातिशयो प्रबाध्य सिद्धान्तमिति - विशेषणेन वचनातिशयः कथ्यते ।
तस्यायं भावः - तद्भाषितः स्याद्वादः कैरपि तार्किकैर्न प्रतिहन्यते । यद्यपि परे कथयन्ति स्याद्वादः संशयवादो यत्र तत्त्वनिश्चयो न भवति । तत्रेदमपि स्यात् प्रयुज्यते