________________
स्याद्वादबोधिनी - २०५
विनिहितम् - 'दधातेहि' इतिसूत्रेण धा धातोः हि श्रादेशः । परतीर्थिकैरपि दुरधीतकुतर्कयुक्तीरुदयं जगदीदं व्यामोह - निविडान्धकारे पातितमित्याशयः । तत्-जगद् उद्धर्तुं म् उपकर्तुम् नियतं यथा स्यात् तथैतिक्रियाविशेषणम् । अविसंवादिवचनः - यथार्थोपदेष्टा स्याद्वाद प्रवर्तकत्वात् त्वमेव भवानसि शक्तः समर्थः ।
अन्येऽपि विसंवादिनः यतो हि ते कषच्छेद- तापलक्षण परीक्षायेण विशुद्धं वचनं न गिरन्ति । अतएव ते संसारं महामोहान्धकारे पातयन्ति । याकिनीमहत्तरा धर्मसूनुना चतुर्दशशतचत्वारिंशद्ग्रन्थकर्त्तृगा कथितं यत् कषच्छेदतापलक्षणत्रयविशुद्धिमन्तरा न धर्मो धर्मत्वं भजते । तद् यथा
श्रीहरिभद्रसूरिणापि
पाणवहाई श्राणं पावद्वाणाण जो उ पडिसेहो । भाणज्भयणाईणं जो य विही एस धम्मकसो ॥ १ ॥
वज्झाणुट्ठाणेणं जेणण बाहिज्जए तयं णियमा । संभवइ य परिसुद्धं सो पुरण धम्मम्मि छेउत्ति ॥ २ ॥ जीवाई भाववाम्रो वंधाइपसाहगो इहं ताम्रो । एएहि परिसुद्धो धम्मो धम्मत्तरमुवेह || ३ ||