________________
स्याद्वादबोधिनी-२०२
卐 अन्वय-हे महनीयमुख्य ! ते निखिलम् वाग् वैभवम्, विवेक्त म् चेत् (वयम्) प्राशास्महे (तर्हि) जङ्घालतया समुद्रम्, लङ्घम, चन्द्रद्य ति-पानतृष्णाम् वहेम ।
+ स्याद्वादबोधिनी-वागवैभवमिति । मह पूजायां धातुः, महितु योग्यो महनीयः । महधातोः कर्मणि अनीयर् प्रत्ययः । मुखमिव प्राधान्यमिति मुख्यम् । महनीयेषु मुख्यः इति महनीय मुख्यः तस्य सम्बोधनेहे महनीय मुख्य ! सम्यग् बोधनं सम्बोधनम् । तत्रापि प्रथमा विभक्तिर्भवति । 'एङ हर वात्सम्बुद्धेः' इति सोरवयवस्य सस्यलोपः । स्वाराध्यदेवं सम्मुखीकृत्य किमपि निवेद्यते। अन्येभ्यो व्यावृत्य देवाधिदेवं भगवन्तं प्रति कलिकालसर्वज्ञाचार्यप्रवरश्रीहेमचन्द्रसूरीश्वरस्य उक्तिश्च सम्भावनेऽव्ययम् । ते-भवतः विभव एव वैभवम् । 'प्रज्ञादिभ्यश्च' इति अण् प्रत्ययः । वाचां वैभवम्-वाग्वैभवम् भवतो निरतिशयोक्ति निखिलं-सम्पूर्णं यदि विवेक्तुम्-पृथग्भावे पृथक् कत्तु-विचारयितुवयम् प्राशास्महे कामयामहे । __ अत्र 'प्रात्मनि मुरौ बहुत्वम्' । तदा जङ्घालस्य भावः जङ्घालता तया समुद्र सागरं लङ्घम-पारयेम