________________
स्याद्वादबोधिनी-१३७
अनन्त धर्मात्मक नहीं होता वह सत् नहीं होता। अतः जीव, अजीव, धर्म, अधर्म, आकाश, और काल आदि सम्पूर्ण द्रव्यों में अनन्त धर्म मानने चाहिए ।। २२ ।।
[ २३ ] अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तम् । तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाहॐ मूलश्लोकःअपर्ययं वस्तु समस्यमानं,
__अद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदित - सप्तभङ्ग,
__ अदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥ * अन्वयः-समस्यमानम् वस्तु अपर्ययम् एतत् च विविच्यमानम् अद्रव्यम् । (हे जिनेश्वर !) त्वम् बुधरूपवेद्यम्, आदेशभेदोदित सप्तभङ्गम्, अदीदृशः ।
+ स्याद्वादबोधिनी-परे विद्वांसः सप्तभङ्गी नाङ्गोकुर्वन्ति । तेऽपि स्वीकुर्वन्तु तदर्थं श्लोकमवतारयतिअपर्ययमिति । संक्षेपतो वस्तुकथने पर्यायाः अविवक्षिता