________________
स्याद्वादबोधिनी-१२६
* अन्वयः-हे नाथ ! हे जिन ! प्रतिक्षणोत्पादविनाशयोगि, स्थिरैकम्, अध्यक्षम्, ईक्षमाणः, अपि, यः, त्वदाज्ञाम्, अवमन्यते, सः, वातकी, पिशाचकी (इव) वा ।
स्याद्वादबोधिनी-प्रतिक्षणेति । प्रतिक्षणं-प्रतिपलम् । बौद्धा उत्पादानन्तरमेव पदार्थाः मूलतो विनश्यन्तीति स्वीकुर्वन्ति । जैनास्तु श्रोजिनेश्वर-तीर्थङ्कर-प्रवचनानुगामिनो भवतः आदेशं परिपालयन्ति-प्रसारयन्ति । त्रिलोके त्रिकालवत्ति वस्तु दिव्येन केवलज्ञानेन चक्षुषा ज्ञात्वा यथार्थं वस्तुस्वरूपं ते प्रवदन्ति । अतः पूर्ववस्तु-कारणकलापजन्यं तस्य फलमुपभोगः । स्थितानामेव उपभोगो भवति न तु विनष्टानाम् । अतो वस्तूनि कियत् कालपर्यन्तं तिष्ठन्ति । उत्पादवतां विनाशो भवत्येव । यत्रयत्र जन्यत्वं तत्र-तत्र प्रतिकूल कारणसमवधाने विनाशः इति नियमः।
कर्माणि फलानि दत्वैव निर्जरन्ति, आरोपितः पादपः फलं कालान्तरे प्रयच्छत्येव अतस्त्रयो अवस्था पदार्थानाम् । एवं प्रत्यक्षवादिनः पश्यन्तोऽपि न मन्यन्ते । भवतामाज्ञां ते भूतावेशग्रहिलाः वातरोगेणाभिभूताः यथा तथा प्रवदन्तो भगवन्तं विरोधयन्ति, मुग्धान् जनान् प्रवञ्चयन्ति । इति संक्षेपण कारिकार्थः ।