________________
mmmmmmmm
है प्रथम श्रीइन्द्रभूति-गौतमस्वामी गणधरः
सर्वज्ञदेवो जिनवर्द्धमानः ,
पुरीमपायां निकषा सुरम्ये । महत्यरण्ये महसेननाम्नि ,
तीर्थप्रवृत्त्यै कृतवान् विहारम् ॥ १ ॥ निशम्य तं तत्र वने वसन्तं ,
विद्वान द्विजो गौतमनामधेयः । यस्यापरं नाम किलेन्द्रभूति
रगादसौ तत्-प्रभुदर्शनार्थी ॥ २ ॥ दृष्ट्वा तमीशोऽवददिन्द्रभूति ,
आगच्छ ते स्वागतमस्तु भद्र ! । अस्ति त्वदीये हृदि संशयो यद् ,
जीवोऽस्ति वा नैव तदीय सत्ता ॥ ३ ॥ अपाकरिष्ये तमहं द्विजेन्द्र ! ,
निशामयध्यानपरो हि भूत्वा । सर्वज्ञतायां मम संशयं त्वं ,
मा धा ततो ज्ञास्यसि तत्त्वबोधात् ।। ४ ॥