SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ विगुणो-विगतच्छाद्मस्थिकगुण, पुन: कोदृशः ? विभुःकेवलज्ञानवान्, लोकालोकप्रकाशक - केवलज्ञानस्वरूपेण निखिलविश्वव्यापकत्वात्, एवंविध आत्मा पुण्य-पापाभ्यां न युज्यते। तथा न बध्यते मिथ्यादर्शनादिबन्धकारणाभावात्, नेत्यनुवर्तते कर्मबीजाभावात् नापि मुच्यते मुक्तत्वात् इत्यादि । एवं एतानि वेदपदानि मुक्तात्मस्वरूपप्रतिपादकानि, शेषाणि तु सुप्रतीत्यान्येव । एवंविधात्मा पुण्य-पापाभ्यां न युज्यते । उच्यते, अमूर्तत्वात् तथाह्यमूर्तानां प्रति द्रव्यमनन्तानां केवलज्ञानदर्शनानां सम्पातोऽस्ति न च विरोधः । ___ एवं च प्रभुश्रीवीरवचनैः छिन्नसन्देहः षष्ठः श्रीमण्डितः पण्डितोऽपि स्वसार्द्धत्रिशतछात्रपरिवारसहितः प्रवजितः । तत्क्षणाच्च "उपन्नेइ वा (१) विगमेइ वा (२) धुवेइ वा (३)” इति सर्वज्ञविभुश्रीमहावीरवदनाद् त्रिपदीं प्राप्य द्वादशाङ्गी विरचितवान् । ॥ इति श्रीमण्डितो नाम षष्ठो गणधरः ॥
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy