SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सशरीरस्य प्रियाऽप्रिययोरपहतिरास्ति, अशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशत" इत्यादीनि च । एतेषां वेदपदानामयमर्थस्तव चेतसि प्रतिभासते। स एष जीवो विगुणः-सत्त्वादिगुणरहितो विभुः-सर्वव्यापको, न बध्यते-पुण्यपापाभ्यां न युज्यते, न संसरति-न भवे परिभ्रमति, न मुच्यते-कर्मणा बन्धाभावात्, नाप्यन्यं मोचयति-क्रियारहितत्त्वात् अनेन अकर्तृत्वमावेदयति वा । एष बाह्यम्-प्रात्मव्यतिरिक्त महदहङ्कारादि प्राभ्यन्तर वा स्वरूपमेव वेद-जानाति, तवाभिप्राय: 'बन्धो हि जीवकर्मसंयोगलक्षणः'। स आदिमान् आदिरहिती वा ? तत्र यदि प्रथमो विकल्पस्ततो विकल्पत्रय प्रसङ्गः । किं पूर्वमात्मन: प्रसूतिः पश्चात् कर्मणः ?, यदि वा पूर्व कर्मणः पश्चादात्मनः ? अथवा किं युगपत् द्वावपि ? सर्वत्राऽपि दोषः । तथाहि-न तावदात्मनः पूर्वं प्रसूतिनिर्हेतुकत्वात्, आकाशकुसुमवत् । नाऽपि कर्मणः प्राक्प्रसूतिः कर्तुरभावात् । न चाकृतं कर्म भवति । युगपत् प्रसूतिः अपि अयुक्ता, कारणाभावात् । न च अनादिमत्यप्यात्मनि बन्धो घटामटाटयते कारणाभावाद् गगनस्येव । तत्र वेदपदानामयमर्थः स एष आत्मा, किं विशिष्ट: ?
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy