________________
[ ६२ ]
‘मणामे' ति मनसा अम्यते-गम्यते पुनः पुनः संस्मरणतो यः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह-'सोमे' त्ति अरौद्रः सुभगो-वल्लभः ''पियदंसणे' त्ति प्रेमजनकाकारः, किमुक्तं भवति ?–' सुरूवे ' त्ति शोभनाकारः सुस्वभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्यादित्यत आह-'बहुजणस्स वी' त्यादि, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह-' साहुजणस्स वी ' त्यादि ।
_ 'इमा एयारूव' त्ति इयं प्रत्यक्षा एतद्रूपा-उपलक्ष्यमानस्वरूपैव, अकृत्रिमत्यर्थः 'किण्णा लद्ध' त्ति -न हेतुनोपार्जिता, 'किन्ना पत्त' त्ति केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किग्णा अभिसमन्नागय ' त्ति प्राप्ता अपि सती केन हेतुना आभिमुख्येन साङ्गत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति । ' को वा एस आसि पुश्वभवे ' इह यावत्करणादिदं दृश्यं-' किं नामए वा किं वा गोएण कयरंसि वा गामंसि वा सन्निवेसंसि वा किं वा दचा किं वा भोचा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स बा माहणस्स वा अंतेति एगमवि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारण इमा एयारूवा उराला माणुस्सिडि लद्धा पत्ता अभिसमन्नागय' त्ति ।
___ 'जाइसंपन्ना' इह यावत्करणादिदं दृश्यं-'कुलसंपन्ना बलसंपन्ना, एवं विणयणाणदंसणचरित्तलजालाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसीत्यादि । 'दइज्ज० ' त्ति ‘गामाणुगामं दृइज्जमाणा' इति दृश्य, द्रवन्तो-गच्छन्तो इत्यर्थः ।।