________________
[ ६६ ] 'जहा मोयमसामि' त्ति द्वितीयाध्ययने दर्शितगौतमस्वामिभिक्षाचर्यान्यायेनायमपि भिक्षाटनसामाचारों प्रयुक्त इत्यर्थः ।
[पृ. ७७.] 'मुहम्मे थेरे' त्ति धर्मधोषस्थविरानित्यर्थः, धर्मशब्दसाम्याच्छब्दद्वयस्थाप्येकार्थत्वात् ,
'पडिलाभिस्सामीति तुटे' इहेदं द्रष्टव्यं--' पडिलाभेमाणे वि तुटे पडिलाभिए वि तुटे' त्ति । ' तस्स सुहम्म(मुह )स्स' त्ति विभक्तिपरिणामात् 'तेन सुहुमे( मुहे )ने ' त्ति द्रष्टव्यं, तेनेति अशनादिदानेन, ‘दव्वसुद्धणं' त्ति द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थः, इहान्यदपि — गाहगसुद्धेणं दायगसुद्धेणं' ति दृश्य, तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दायकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः, अत एवाह-'तिविहेणं' ति उक्तलक्षणप्रकारत्रययुक्तेनेति 'तिकरणसुद्धणं' त्ति मनोवाक्कायलक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धतयेत्यर्थः, ' एवं आइक्वइ ' त्ति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् ' एवं भासइ ' त्ति विशेषत आचष्टे ‘एवं पनवेइ एवं परूवेई' एतच्च पूक्तिरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थ पदद्वयमवगन्तव्यम् , अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिभिर्बोधयति प्ररूपयति तु भेदतः कथयतीति.। .
. 'धन्ने णं देवाणुप्पिया ! मुहमे (मुहे ) गाहावई' इत्यत्र यावत्करणादिदं दृश्यं-'पुन्ने णं देवाणुप्पिया । सुमुहे गाहावई एवं कयत्थे णं कयलक्खणे णं सुद्धे णं सुहुमस्स( मुहस्स )गाहावइस्स जेम्मजीवियफले जस्स. णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता अभि