________________
[ ६१ ]
'हट' त्ति हट्ठतुढे अतीव हृष्ट: ' उठाए 'त्ति उट्ठाए उढेइ, इह यावत्करणात् इदं दृश्यं-' उद्वित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता — सदहामि णं भंते ! निग्गंथं ' इत्यादि यत्सूत्रपुस्तके दृश्यते तद्वक्ष्यमाणवाक्यानुसारेणावगन्तव्यं, तथा हि-'सदहामि णं भंते ! निग्गंथं पावयणं पत्तियामि णं भंते ! निग्गंथं पावयणं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडंबियकोडुंबियसेद्विसत्थवाहपहियओ मुंडे भवित्ता आगाराओ अणगारियं पव्वयंति नो खलु अहं तहा संचाएमि पव्वइत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावयं गिहिधम्म पडिवज्जामि, अहासुहं देवाणुप्पिया ! मा पडिबंध करेह' त्ति भगवद्वचनं, ‘तमेव ' इदमेवं दृश्यं-' तमेव चाउग्घंट आसरहं,' 'जामेव' इत्यादि त्वेवं दृश्यं 'जामेव दिसं पाउब्भूए तामेव दिसि पडिगए ' त्ति ।
[पृ. ७६. ] ' इंदभूई' इत्यत्र यावत्करणात् ' नामं अणगारे गोयमगोत्रेण ' मित्यादि दृश्यं, 'इटे ' त्ति इष्यते इतीष्टः स च तत्कृतविवक्षितकृत्यापेक्षयाऽपि स्यादित्याह-इष्टरूपः इष्टस्वरूप इत्यर्थः इष्टः इष्टरूपो वा कारणवशादपि स्यादित्याह-कान्तः-कमनीयः कान्तरूपःकमनीयस्वरूपः, शोभनः शोभनस्वभावश्चेत्यर्थः, एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह-प्रियः-प्रेमोत्पादकः प्रियरूपः-प्रीतकारिस्वरूपः, एवंविधश्च लोकरूढितोऽपि स्यादित्यत आहमनोज्ञः मनसा-अन्तः संवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, एवंविधश्चैकदाऽपि स्यादित्यत आह