________________
[ ६० ] वर्णको विवाहवक्तव्यता च यथा भगवत्यां महाबलस्योक्ता एवमस्यापि पुष्पचूडाप्रमुखानामिति वाच्यम् , एतदेव दर्शयन्नाह-' नवर' मित्यादि। . 'तहेव ' त्ति यथा महाबलस्येत्यर्थः, 'पंचसयओ दाओ 'त्ति 'पंचसयाई हिरन्नकोडीणं पंचसयाई सुवण्णकोडीणं' इत्यादि दानं वाच्यम् , इह यावत्करणादेवं दृष्ट्यं-' तए णं सुबाहु कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ ' इत्यादि वाच्यं यावत् 'अन्नं च विपुलं धणकणगरयणमणि मोत्तियसंखसिप्पप्पवालमाइयं दलयति,तए णं से सुबाहुकुमारे ' त्ति, ' उप्पि पासायवरगए ' प्रासादवरस्य उपरिस्थित इत्यर्थः, 'फुट्ट०' इह यावत्करणादिदं दृश्यं–'फुट्टमाणेहिं मुइंगमत्थएहिं' स्फुटद्भिर्मृदङ्गमुखपुटैरतिरभसास्फालनादित्यर्थः, 'वरतरुणीसंपउत्तेहिं' 'बत्तीसइबद्धेहिं नाडएदि' द्वात्रिंशद्भिभक्तिनिबद्धैः द्वात्रिंशत्पात्रनिबद्वैरित्यन्ये ' उवगिज्जमाणे उवलालिज्जमाणे माणुस्सए कामभोगे पञ्चणुब्भवमाणे 'त्ति, 'जहा कुणिए' त्ति यथा औपपातिके कोणिकराजो भगवद्वन्दना य निर्गच्छवर्णित एवमयमपि वर्णयितव्य इति भावः । 'सुबाहू वि जहा जमालि तहा रहेण निग्गउ' त्ति, अयमर्थः-येन भगवतीवर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्य'समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासइ पासित्ता रहाओ पच्चोरुहइ २त्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी।